उल्लेखाः

  1. श्वासनियन्त्रणेन तृतीयस्य अन्तश्चक्षुषः उन्मीलनं भवति। तदेव हि आत्मनः अन्तःसाक्षी।
  2. ध्यानाभ्यासस्य त्रीणि सोपानानि - ध्यानकरणं, ध्यानविषयकग्रन्थानां पठनम्, ध्यानविषयकप्रवचनानां श्रवणं च ।
  3. विश्वस्मिन्नपि विश्वे अद्य अध्यात्मपरा क्रान्तिः समारब्धा। पिरमिड्-अध्यात्म-समाज-परिवर्तनं तत्र विशिष्टम्।
  4. मांसाहारेण प्राणिनां हननं, रक्तपातः, हिंसा, सूना च सम्भवन्ति। पापमेव महत् आश्रयते। तस्मात् मांसाहारः सर्वथा वर्जनीयः।
  5. ध्यानं सत्यस्य पन्थाः। नान्यः पन्थाः अयनाय विद्यते।
  6. ध्यानेन किं न साध्यम्? जीवने यशः, साफल्यं, पूर्णता, शान्तिः, समरसता च ध्यानगम्यम्।
  7. शरीरस्य प्रतिबिम्बम् आदर्शे पश्यामः। आत्मनः प्रतिबिम्बं ध्याने पश्यामः।

No Copyright. Please spread the message of Anapanasati Meditation, Vegetarianism and Spiritual Science to the whole world.
Powered by PyramidEarth