किं नाम ध्यानम्?

चित्तवृत्तिनिरोधपूर्वकं मनसः ऐकाग्र्यं ध्यानम्। निरन्तरम् अशान्तस्य मनसि अन्तःकलरवस्य प्रशमनम्। प्राणायामः ध्यानस्य कीलकम्। ध्यानप्रक्रिया अत्यन्तं सरला। नेत्रे निमील्य उच्छ्वास-निश्वासौ समस्थितौ समानीय प्राणान् धारयत। ध्यानेन अन्तःकरणस्य निरन्तरतरङ्गाः प्रशान्ताः भवन्ति। तेन च आत्मशक्तिर्वर्धते। ततश्च मनश्शान्तिः शरीरस्वास्थ्यं प्रज्ञानघनं जीवनम्। पिरमिड्-अभ्यन्तरे क्रियमाणं ध्यानं बहुप्रयोजनाय कल्पते। तदेव पिरमिड् ध्यानमित्युच्यते।

ब्रह्मर्षिः पत्रीजी

पिरमिड्-अध्यात्मसमाजपरिवर्तनस्य मूलपुरुषाः ब्रह्मर्षिपत्रीमहोदयाः १९७९ तमे वर्षे साक्षात्कारं प्राप्य अनितरसाधारणैः स्वजीवनानुभवैः ध्यानस्य शक्तिं प्राप्तवन्तः। तदारभ्य ध्यानस्य प्रशिक्षणं प्रसारञ्च स्वजीवनव्रतं चक्रुः। तदङ्गतया शाकाहारनियमोsपि जगति सर्वत्र प्रख्यापयामासुः। तैः प्रदर्शितः पन्थाः सर्वथैव वैज्ञानिकः सर्वमतातीतश्च।

PSSM

पिरमिड्-अध्यात्मकेन्द्राणि न धार्मिककेन्द्राणि, न वा समुदायकेन्द्राणि, नापि लाभोद्देश्यकानि। एतेषां केन्द्राणां परमं लक्ष्यं केवलं ध्यानस्य शाकाहारस्य पिरमिड्शक्तेश्च प्राचुर्यसम्पादनम्। पिरमिड्-अध्यात्म-समाजपरिवर्तनस्य विश्वव्यापि-आध्यात्मकनवयुगनिर्माणस्य एकं सोपानम्। हिंसातः अहिंसां प्रति, मांसाहारात् शाकाहारं प्रति, अन्धमताभिमानात् वैज्ञानिकप्रयोगश्रद्धां प्रति, भौतवादात् अध्यातमं प्रति मानवस्य पयनमेव एतस्य परमं लक्ष्यम्।

शाकाहारव्रतम्

अध्यात्मजीवने शाकाहारित्वम् अवश्यकरणीयं व्रतम्। आध्यात्मं शाकाहारित्वञ्चेति पर्यायौ। तस्मात् अध्यात्ममार्गगामिना सर्वेणापि शाकाहारिणा भाव्यम्।

पिरमिड् अधिकृत्य

पिरमिड् सर्वांशप्रगतेः संकेतः । पिरमिड्-आकृतेः चत्वारः भुजाः भवन्ति। ते च जलसाम्राज्यस्य, सस्यसाम्राज्यस्य, प्राणिसाम्राज्यस्य, मानवसाम्राज्यस्य च प्रतिनिधयः। ते चत्वारः अपि भुजाः उपरितनभागे चतुर्भुजशिखररूपे एकीभवन्ति। र्एतदेव अध्यात्मं नाम।

No Copyright. Please spread the message of Anapanasati Meditation, Vegetarianism and Spiritual Science to the whole world.
Powered by PyramidEarth